Shiv Sahasranama Stotram: महाशिवरात्रि पर करें शिव सहस्रनाम स्तोत्र का पाठ, पाएं मानसिक शांति और अनुभव करें शिव कृपा का अद्भुत असर
Shiv Sahasranama Stotram: महाशिवरात्रि के दिन शिवलिंग की विधिपूर्वक पूजा करें। इसके बाद शांत मन से शिव सहस्रनाम स्तोत्र का पाठ करना चाहिए। इस अनुष्ठान से न केवल आध्यात्मिक ऊर्जा बढ़ती है, बल्कि भक्त को मानसिक शांति और जीवन की कठिनाइयों से मुक्ति भी प्राप्त होती है।

Shiv Sahasranama Stotram Path on Mahashivratri: महाशिवरात्रि भगवान भोलेनाथ के असीम शक्ति से जुड़ा पर्व है। यह दिन शिवभक्तों के लिए बहुत ज्यादा महत्वपूर्ण होता है। सावन के सोमवार और महाशिवरात्रि के अवसर पर शिव पूजा और व्रत रखने से जीवन में आध्यात्मिक शक्ति, मानसिक शांति और आशीर्वाद की प्राप्ति होती है। महाशिवरात्रि के दिन ब्रह्म मुहूर्त में स्नान कर स्वच्छ वस्त्र पहनना अत्यंत शुभ माना जाता है। इसके बाद शिवलिंग की विधिपूर्वक पूजा, दीप और धूप प्रज्वलित कर शांत मन से शिव सहस्रनाम स्तोत्र का पाठ करना चाहिए। अगर इस पावन घड़ी पर साधक शिव सहस्रनाम स्तोत्र का श्रद्धा और नियमपूर्वक पाठ करते हैं, तो उन्हें शिव कृपा के माध्यम से अकल्पनीय पुण्य प्राप्त होता है।
यहां से डाउनलोड करें शिव सहस्रनाम स्तोत्र Shiv Sahasranama Stotram Sanskrit PDF
ध्यानम्
शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खङ्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ।।
शिव सहस्रनाम स्तोत्रम्
ओं स्थिर: स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १ ॥
जटी चर्मी शिखण्डी च सर्वाङ्ग: सर्वभावनः ।
हरश् हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥२ ॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
रमशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३ ॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४ ॥
महारूपो महाकायो वृषरूपो महायशाः ।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ५ ॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ६ ॥
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ७ ॥
चन्द्रः सूर्यः शनि: केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ८ ॥ [आद्यन्तलयकर्ता च]
महातपा घोरतपा अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ९ ॥
योगी योज्यो महाबीजो महारेता महाबलः ।
सुवर्णरताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १० ॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ।। ११ ।।
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ १२ ॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।
अशनी शतघ्ी खड्गी पट्टशी चायुधी महान् ।। १३ ॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १४ ॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च।
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ १५ ॥
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ १६ ॥
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ १७ ॥
गजहा दैत्यहा कालो लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ १८ ॥
कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९ ॥
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ २० ॥
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ २१ ॥
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । [मर्ष]
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ २२ ॥
तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ २३ ॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ २४ ॥
विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ २५ ॥
विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ २६ ॥
उग्रतेजा महातेजा जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ २७ ॥
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली।
वेणवी पणवी ताली खली कालकटङ्कटः ॥ २८ ॥
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ २९ ॥
विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेद्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ३० ॥ [मेघजो]
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥३१ ।।
त्रिदशस्तकालधृक्कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ३२ ॥
साङ्काप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥३३ ॥
सर्ववास: सर्वचारी दुर्वासा वासवोऽमरः ।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥३४ ॥ [यज्ञः]
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।
सङ्ग्हो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५ ॥
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।
सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥३६ ॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती हावशः खगः ॥ ३७ ॥
रौद्ररूपोऽम्शुरादित्यो बहुरश्मिः सुवर्चसी।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८ ॥
सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्रश्च सहस्रदः ॥ ३९ ॥
पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः ।
उन्मादो मदनः कामो हाश्चत्थोऽर्थकरो यशः ॥ ४० ॥
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१ ॥
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ ४२ ॥
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥। ४३ ॥
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । [नित्यमाश्रितपूजितः]
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥४४ ।।
ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ४५॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ४६ ॥
चतुर्मुखो महालिङ्गश्वारुलिङ्गस्तथैव च।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ४७ ॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।
इतिहास: सकल्पश्च गौतमोऽथ निशाकरः ॥ ४८ ॥
दम्भो हादम्भो वैदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता हानौषधः ॥ ४९ ॥
अक्षरं परमं ब्रह्म बलवच्छक्र एव च।
नीतिर्हानीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५० ॥
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१॥
महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२ ॥
वृषणः शङ्करो नित्यवर्चस्वी धूमकेतनः ।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ५३॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ५४ ॥
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।
महापादो महाहस्तो महाकायो महायशाः ॥ ५५ ॥
महामूर्धा महामात्रो महानेत्रो निशालयः ।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६ ॥
महानासो महाकम्बुर्महाग्रीवः रमशानभाक् ।
महावक्षा महोरस्को ह्ान्तरात्मा मृगालयः ॥ ५७॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥५८ ॥
महानखो महारोमा महाकेशो महाजटः ।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९ ॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ६० ॥
गण्डली मेरुधामा च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य ऋ्क्सहस्रामितेक्षणः ॥ ६१ ॥
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२ ॥
उपकार: प्रियः सर्वः कनकः काञ्चनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ६३ ॥
द्वादशस्ासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४ ॥
सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५ ॥
लोकपालस्तथाऽलोको महात्मा सर्वपूजितः ।
शुकस्ित्रिशुक: सम्पन्नः शुचिर्भूतनिषेवितः ॥ ६६ ॥
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो हाम्बुजालः सुनिश्चलः ॥ ६७ ॥
कपिल: कपिशः शुक आयुश्चैव परोः ।
गन्धर्वो हादितिस्ताक्ष्यः सुविज्ञेयः सुशारदः ॥ ६८ ॥
परश्वधायुधो देवो हानुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ६९ ॥
उग्रो वंशकरो वंशो वंशनादो हानिन्दितः ।
सर्वाङ्गरूपो मायावी सुहृदो हानिलोऽनलः ॥ ७० ॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
स यज्ञारि: स कामारिर्महादंष्ट्रो महायुधः ॥ ७१॥
बहुधा निन्दितः शर्व: शङ्करः शङ्करोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा॥ ७२॥
अहिर्बुध्योऽनिलाभश्च चेकितानो हविस्तथा । [हरि]
अजैकपाच्च कापाली त्रिशङ्करजितः शिवः॥ ७३॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४ ॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ ७५ ॥
विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६ ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्जुरी।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः॥ ७७॥
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित्॥७८॥
कैलासगिरिवासी च हिमवद्विरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९ ॥
वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ८० ॥
सिद्धार्थकारी सिद्धार्थरछन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१॥
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्ग: केतुमाली सभावनः ॥ ८२ ॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ८३ ॥
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः सम्यतो हाश्वो भोजनः प्राणधारणः ॥ ८४ ॥
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ८५ ॥
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहषों जितकामो जितेन्द्रियः ॥ ८६ ॥
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥। ८७।।
महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ८८ ॥
तोरणस्तारणो वातः परिधी पतिखेचरः ।
सम्योगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ८९॥
नित्य आत्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ।। ९० ॥
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१ ॥
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२ ॥
समाम्नायोऽसमाम्रायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३ ॥
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । [रत्नाङ्गो]
मूलं विशालो हामृतो व्यक्ताव्यक्तस्तपोनिधि: ॥ ९४ ॥
आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५ ॥ [योगकरो]
युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो हाचलोपमः ॥ ९६ ॥
बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपखियुगः सफलोदयः ॥ ९७ ॥
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।
बिन्दुर्विसर्ग: सुमुखः शरः सर्वायुधः सहः ॥ ९८॥
निवेदन: सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९ ॥
मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
तलस्ताल: करस्थाली ऊर्ध्वसंहननो महान् ॥। १०० ॥
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ।। १०१ ॥
हर्यक्ष: ककुभो वज्री शतजिद्वः सहस्रपात्।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १०२ ॥
सहस्रबाहु: सर्वाङ्ग: शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १०३ ॥
ब्रह्मदण्डविनिर्माता शतघ्रीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ।। १०४ ।।
गभस्तिर्ब्रह्मकृद्गह्मी ब्रह्मविद्धाह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १०५ ॥
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्र: सुरभ्युत्तरणो नरः ॥ १०६॥
कर्णिकारमहास्रग्वी नीलमौलि: पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १०७ ॥
वरो वराहो वरदो वरेण्यः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १०८ ॥
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । [प्रीतात्मा]
सर्वपार्श्वमुखस्यक्षो धर्मसाधारणो वरः ॥ १०९ ॥
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः ॥। ११० ॥
व्यास: सर्ग: सुसङ्गेपो विस्तरः पर्ययो नरः ।
ऋतुः संवत्सरो मासः पक्षः सङ्यासमापनः ॥ १११ ॥
कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ ११२ ॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥११३॥
निर्वाणं ह्वादनश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायण: ॥। ११४ ।।
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः॥ ११५ ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६ ॥ [देवादि]
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माSSत्मसम्भवः ॥ ११७॥
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥११८ ॥
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्त: शोभनो वज्री प्रासानां प्रभवोऽव्यय: ॥। ११९॥
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १२० ॥
अभिराम: सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १२१ ॥
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थ: सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥१२२ ॥
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । [भक्तानुग्रहकारकः]
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १२३ ॥